Shri Ganapati Atharvashirsha | श्री गणपती अथर्वशीर्ष

ॐ नमस्तेगणपतये ॥ त्वमेवप्रत्यक्षंतत्त्वमसि ॥

त्वमेव केवलंकर्तासि ॥ त्वमेवकेवलंधर्तासि ॥

त्वमेवकेवलंहर्तासि ॥ त्वमेवसर्व खल्बिदंब्रह्मासि ॥

त्वंसाक्षादात्मासिनित्यम्‌ ॥१॥

ऋतंवच्मि ॥ सत्यंवच्मि ॥२॥

अवत्वंम्‌ ॥ अववक्तारम्‌ ॥

अवश्रोतारम्‌ ॥ अवदातारम्‌ ॥

अवधातारम्‌ ॥ अवानूचानमवशिष्यम्‌ ॥

अवपश्चात्तात्‌ ॥ अवपुरस्तात्‌ ॥ अवोत्तरात्तात्‌ ॥

अवदक्षिणात्तात्‌ ॥ अवचोर्ध्वात्तात्‌ ॥ अवाधरातात्‌ ॥

सर्वतोमांपाहिपाहिसमंतात्‌ ॥३॥

त्वंचाङमयस्त्वंचिन्मयः ॥ त्वमानंदमयस्त्वंब्रह्मासि ॥

त्वसच्चिदानंदाद्वितीयोसि ॥ त्वंप्रत्यक्षंब्र्ह्मासि ॥

त्वंज्ञानमयोविज्ञनमयोसि ॥४॥

सर्वजगदिदंत्वत्तोजायते ॥ सर्वजगदिदंत्वत्तस्तिष्ठति ॥

सर्वजगदिदंत्वयिलयमेष्यति ॥ सर्वजगदिदंत्वयि प्रत्येति ॥

त्वंभूमिरापोनलीनिलोनभः ॥ त्वंचत्वारिवाक्‌पदानि ॥५॥

त्वंगुणत्रयातीतः ॥ त्वंगुणत्रयातीतः ॥

त्वंदेहत्रयातीतः ॥ त्वंकालत्रयातीतः ॥

त्वांयोगिनोध्यायंति नित्यम्‌ ॥

त्वंब्रह्मात्वं विष्णुस्त्वंरुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वंवायुस्त्वंसूर्यस्त्वंचंद्रमास्त्वं ब्रहम्भूर्भुवःस्वरोम्‌ ॥६॥

गणादिंपूर्वमुच्चार्यवर्णादिंतदनंतरम्‌ ॥ अनुस्वारःपरतरः ॥

अर्धेदुलसितम्‌ ॥ तारेण रुद्धम्‌ ॥ एतत्तवमनुस्वरूपम्‌ ॥

गकारःपूर्वरूपम्‌ ॥ अकारोमध्यमरूपम्‌ ॥ अनुस्वारश्चान्त्यरूपम्‌ ॥

बिन्दुरुत्तररूपम्‌ ॥ नादःसंधानम्‌ ॥ संहितासंधिः ॥

सेषागणेशविद्या गणकऋषिः ॥ निचृद्गायत्रोछन्दः ॥

गणपतिर्देवता ॥ ॐ गंगणपतये नमः ॥७॥

एकदंतायविद्महेवक्रंतुडाय धीमहि ॥ तन्नोदंती प्रमोदयात्‌ ॥८॥

एक्दंतंचतुर्हस्तं पाशमंकुशधारिणम्‌ ॥

रदंचवरदंहस्तैर्बिभ्राणं मूषकध्वजम्‌ ॥

रक्तंलंबोदरंशूर्पकर्णकंरक्तवाससम्‌ ॥

रक्तगंधानुलिप्तांगंरक्तपुष्पैःसुपूजितम्‌ ॥

भक्तानुकंपिनंदेवंजगत्कारणमच्युतम ।

आविर्भूतंचसृष्ट्यादौप्रकृतेःपुरुषात्परम्‌ ॥

एवंध्यायतियोनित्यं सयोगीयोगिनांवरः ॥९॥

नमोव्रातपतये नमोगणपतये नमः

प्रमथपतयेनमस्तेअस्तुलंबोदरायैकदंतायविघ्ननाशिने शिवसुताय श्रीवरदमूर्तयेनमः ॥१०॥

एतदथर्वशीर्षंयोधीते । सब्रह्मभूयायकल्पते ॥

ससर्वतःसुखमेधते ॥ ससर्वविघ्नैर्न बाध्यते ॥

सपंचमहापापात्प्रमुच्यते ॥ सायमधीयानो दिवसकृतंपापंनाशयति ॥

धर्मार्थकाममोक्षंचविंदति ॥

इदमथर्वशीर्षमशिष्यायानदेयम्‌ ॥ योयदिमोहाद्दास्यति ॥

सपापीयान्‌भवति ॥ सहस्त्रावर्तनात्‌ ॥

यंयंकाममधीते ॥ तंतमनेनसाधयेत्‌ ॥११॥

अनेनगणपतिमभिषिंचति ॥ सवाग्मीभवति ॥

चतुर्थ्यामनश्नन्‌जपति ॥ सविद्यावान्भवति ।

इत्यथर्वणवाक्यम्‌ ॥ ब्रह्माद्याचरणंविद्यात्‌ ॥

नबिभेतिकदाचनेति ॥१२॥

योदूर्वांकुरैर्यति ॥ सवैश्रवणोपमोभवति ॥

योलाजैर्यजति ॥ सयशोवान्भवति ॥

समेधावान्भवति ॥ योमोदकसहस्त्रिणयजति ॥

सवांछितफलमवाप्नोति ॥ यःसाज्यसमिद्भिर्यजि ॥

ससर्वंलभतेससर्वंलभते ॥ अष्टौब्राह्मणान्‌सम्यग्ग्राहयित्वासूर्यवर्चस्वीभवति ॥

सूर्यग्रहेमहानद्यांप्रतिमासंनिधौवाजप्त्वा सिद्धमन्त्रोभवति ॥

महाविघ्नात्प्रमुच्यते ॥ महादिषात्प्रमुच्यते ॥ महापापात्प्रमुच्यते ॥

ससर्वविद्भवतिससर्वविद्भवति यएवंवेद ॥ इत्युपनिषत्‌ ॥१३॥

ॐ भद्रं कर्णेभिः शृणुयम देवा भद्रंपश्येमाक्षभिर्यजत्राः ।

स्थिरैरंगैस्तुष्टुवांसस्त्ननूभिर्व्यशेम देवहितं यदायुः ॥१॥

स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्तिनो बहस्पतिर्दधाउ ॥२॥

ॐ शान्तिः । शान्तिः । शान्तिः ।

मित्रोंना तुम्हाला हा मराठी वारसा चा लेख जर आवडला असेल तर आम्हाला Facebook वर Like आणि share नक्की करा. या वरील लेखात जर तुम्हाला काही चुकीचे वाटत असेल तर कमेंट बॉक्स मध्ये आम्हाला त्याची माहिती द्या आम्ही हा लेख अपडेट करत राहू.

नमस्कार मित्रांनो, माझे नाव रोहित म्हात्रे असून, लहानपणापासून च मला वाचण्याची आवड होती त्यामुळे मला लिहायला देखील आवडते. म्हणूनच च मी रिकाम्या वेळेचा सुदुपयोग म्हणून मराठी वारसा हा मराठी वाचकांसाठी चा ब्लॉग सुरु केला आहे. या ब्लॉग वर तुम्हाला Online Earning, ब्लॉगिंग सोबत खूप साऱ्या मराठी विषयांवर लेख वाचायला भेटतील.

Leave a Comment